श्री नृसिंहकवचम्
नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा ।
सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनम् ॥१॥
सर्वसंपत्करं चैव स्वर्गमोक्षप्रदायकम् ।
ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितम् ॥२॥
विवृतास्यं त्रिनयनं शरदिन्दुसमप्रभम् ।
लक्ष्म्यालिङ्गितवामाङ्गं विभूतिभिरुपाश्रितम् ॥३॥
चतुर्बुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् ।
श्रिया सुषोभितोरस्कं रत्नकेयूरमुद्रितम् ॥४॥
तप्तकाञ्चनसङ्काशं पीतनिर्मलवाससम् ।
इन्द्रादिसुरमौलिष्ठः स्फुरन्माणिक्यदीप्तिभिः ॥५॥
विराजितपदद्वन्द्वं शङ्खचक्रादिहेतिभिः ।
गरुड्मता च विनयात् स्तूयमानं मुदा युतम् ॥६॥
स्वहृत्कमलसंवासं कृत्वा तु कवचं पठेत् ।
नृसिंहो मे शिरः पातु लोकरक्षात्मसम्भवः ॥७॥
सर्वगोऽपि स्तम्भवासः फालं मे रक्षतु ध्वनिम् ।
नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचनः ॥८॥
स्मृतिं मे पातु नृहरिः मुनिवर्यस्तुतिप्रियः ।
नासां मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः ॥९॥
सर्वविद्याधिपः पातु नृसिंहो रसनां मम ।
वक्त्रं पात्विन्दुवदनः सदा प्रह्लादवन्दितः ॥१०॥
नृसिंहः पातु मे कण्ठं स्कन्धौ भूभरनान्तकृत् ।
दिव्यास्त्रशोभितभुजो नृसिंहः पातु मे भुजौ ॥११॥
करौ मे देववरदो नृसिंहः पातु सर्वतः ।
हृदयं योगिसाध्यश्च निवासं पातु मे हरिः ॥१२॥
मध्यं पातु हिरण्याक्षवक्षःकुक्षिविदारणः ।
नाभिं मे पातु नृहरिः स्वनाभिब्रह्मसंस्तुतः ॥१३॥
ब्रह्माण्डकोटयः कट्यां यस्यासौ पातु मे हरिः ।
गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपधृक् ॥१४॥
ऊरू मनोभवः पातु जानुनी नररूपधृक् ।
जङ्घे पातु धराभारहर्ता योऽसौ नृकेशरी ॥१५॥
सुरराज्यप्रदः पातु पादौ मे नृहरीश्वरः ।
सहस्रशीर्षापुरुषः पातु मे सर्वशस्तनुम् ॥१६॥
महोग्रः पूर्वतः पातु महावीराग्रजोऽग्नितः ।
महाविष्णुर्दक्षिणे तु महाज्वालस्तु नैऋत्याम् ॥१७॥
पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुखः ।
नृसिंहः पातु वायव्यां सौम्यां भीषणविग्रहः ॥१८॥
ईशान्यां पातु भद्रो मे सर्वमङ्गलदायकः ।
संसारभयदः पातु मृत्युर्मृत्युः नृकेशरी ॥१९॥